मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४९, ऋक् ५

संहिता

प्र ये वसु॑भ्य॒ ईव॒दा नमो॒ दुर्ये मि॒त्रे वरु॑णे सू॒क्तवा॑चः ।
अवै॒त्वभ्वं॑ कृणु॒ता वरी॑यो दि॒वस्पृ॑थि॒व्योरव॑सा मदेम ॥

पदपाठः

प्र । ये । वसु॑ऽभ्यः । ईव॑त् । आ । नमः॑ । दुः । ये । मि॒त्रे । वरु॑णे । सू॒क्तऽवा॑चः ।
अव॑ । ए॒तु॒ । अभ्व॑म् । कृ॒णु॒त । वरी॑यः । दि॒वःपृ॑थि॒व्योः । अव॑सा । म॒दे॒म॒ ॥

सायणभाष्यम्

येयजमानाः वसुभ्योयज्ञनिवासेभ्योदेवेभ्यः ईवत् गमनवत् नमोन्नंपश्वात्मकं प्रदुः प्रादुः येचमित्रेदेवेवरुणेच सूक्तवाचः सूक्तवचसोभवन्ति तानस्मानभ्वं महद्धनं तेजोवा अवैतु अवगच्छतु हेदेवाः कृणुत कुरुतच एतेभ्योवरीयउरुतरं सुखं दिवस्पृथिव्योर्द्यावापृथिव्योरवसारक्षणेन मदेम हृष्येम ॥ ५ ॥

विश्वोदेवस्येतिपंचर्चंषष्ठंसूक्तं स्वस्त्यात्रेयमुनेरार्षंवैश्वदेवं पंचमीपंक्तिः आद्यश्चतस्रोनुष्टुभः तदुक्तमनुक्रमण्यां-विश्वःस्वस्त्यात्रेयः पं- क्त्यन्तमिति । पृष्ठ्याभिप्लवषडहयोःप्रथमेहनि वैश्वदेवशस्त्रे विश्वोदेवस्येतिप्रतिपत्तृचस्याद्यः सुत्रितंच-विश्वोदेवस्यनेतुरित्येकेति । आभिप्लविकेषुद्वितीयचतुर्थषष्ठेष्वहः सुएषैववैश्वदेवस्यशस्त्रस्यप्रतिपत् युग्मेष्वेवमभिप्लवइतिसूत्रितत्वात् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः