रथं॒ नु मारु॑तं व॒यं श्र॑व॒स्युमा हु॑वामहे ।
आ यस्मि॑न्त॒स्थौ सु॒रणा॑नि॒ बिभ्र॑ती॒ सचा॑ म॒रुत्सु॑ रोद॒सी ॥
रथ॑म् । नु । मारु॑तम् । व॒यम् । श्र॒व॒स्युम् । आ । हु॒वा॒म॒हे॒ ।
आ । यस्मि॑न् । त॒स्थौ । सु॒रणा॑नि । बिभ्र॑ती । सचा॑ । म॒रुत्ऽसु॑ । रो॒द॒सी ॥
वयमात्रेयाः रथं रंहणस्वभावं मारुतं मरुतांसंबन्धिनंरथं श्रवस्युं अन्नेछुं नुअद्य आहुवामहे आह्वयामः यस्मिन्त्रथे सुरणानि सुरम- णानि जलानि बिभ्रती धारयन्ती रोदसी रुद्रस्यपत्नी मरुतांमाता यद्वा रुद्रोवायुः तत्पत्नी माध्यमिकादेवीमरुत्सु सचा सहिता आतस्थौ आस्थितवती तंरथमाहुवे ॥ ८ ॥