यू॒यं राजा॑न॒मिर्यं॒ जना॑य विभ्वत॒ष्टं ज॑नयथा यजत्राः ।
यु॒ष्मदे॑ति मुष्टि॒हा बा॒हुजू॑तो यु॒ष्मत्सद॑श्वो मरुतः सु॒वीरः॑ ॥                
                    यू॒यम् । राजा॑नम् । इर्य॑म् । जना॑य । वि॒भ्व॒ऽत॒ष्टम् । ज॒न॒य॒थ॒ । य॒ज॒त्राः॒ ।
यु॒ष्मत् । ए॒ति॒ । मु॒ष्टि॒ऽहा । बा॒हुऽजू॑तः । यु॒ष्मत् । सत्ऽअ॑श्वः । म॒रु॒तः॒ । सु॒ऽवीरः॑ ॥                
हेमरुतः यूयं जनाय यजमानाय राजानं स्वामिनं राजमानंवा इर्यं शत्रूणांप्रेरकं च्यावयितारं विभ्वतष्टं विभ्वानामऋभूणांमध्यमः सकुशली तेननिर्मितं अत्यन्तरूपवन्तमित्यथः तादृशंपुत्रं जनयथ उत्पादयथ हेयजत्राः यष्टव्याः हेमरुतोयुष्मद्युष्मत्तः एति गच्छति पुत्रः कीदृशः मुष्टिशब्दोबाहूपलक्षकः स्वभुजबलेनैवहन्ताशत्रूणां तदेवोच्यते बाहुजूतः बाहुप्रेरकः शत्रूणां यस्यतादृशःपुत्रएति तथायुष्मत् युष्मत्तः सदश्वोविद्यमानाश्वः बह्वश्वइत्यर्थः सुवीरः शोभनवीर्यः पुत्रएति जायतइत्यर्थः ॥ ४ ॥ वरुणप्रघासेमारुत्याआमिक्षायाअराइवेतियाज्या सूत्रितंच-अराइवेदचरमाअहेवेमं मेवरुणश्रुधीति । एकादशिनेमारुतेपशावेषैवपशु- पुरोडाशस्ययाज्या सूत्रितंच-अराइवेदचरमाअहेवयावःशर्मशशमानायसन्तीति ।