स त्वं नो॑ अर्व॒न्निदा॑या॒ विश्वे॑भिरग्ने अ॒ग्निभि॑रिधा॒नः ।
वेषि॑ रा॒यो वि या॑सि दु॒च्छुना॒ मदे॑म श॒तहि॑माः सु॒वीरा॑ः ॥
सः । त्वम् । नः॒ । अ॒र्व॒न् । निदा॑याः । विश्वे॑भिः । अ॒ग्ने॒ । अ॒ग्निऽभिः॑ । इ॒धा॒नः ।
वेषि॑ । रा॒यः । वि । या॒सि॒ । दु॒च्छुनाः॑ । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥
हेअर्वन् गन्तरग्ने सतादृशस्त्वं निदायाः निन्दित्र्याः प्रजायाः निन्द्रायाएववापाहीतिशेषः कथंभूतः सन् विश्वेभिः सर्वैरग्निभिः त्वच्छा- खाभूतैः इधानः इध्यमानःसन् रायोधनानिच अस्मान्वेषि गमय यद्वा हविर्लक्षणानि धनानि वेषि कामयसे दुच्छुनाः दुःखकारिणीः शत्रु- सेनाः वियासिच विविधंगमयसिच वयंच सुवीराः शॊभनपुत्रपौत्राःसन्तः शतहिमाः शतसंवत्सरान् मदेम मोदेम ॥ ६ ॥
त्वद्विश्वेतिषळृचंत्रयोदशंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयं त्वद्विश्वेत्यनुक्रान्तं प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।