म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्यं शा॒समिन्द्र॑म् ।वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ॥
म॒रुत्व॑न्तम् । वृ॒ष॒भम् । व॒वृ॒धा॒नम् । अक॑वऽअरिम् । दि॒व्यम् । शा॒सम् । इन्द्र॑म् ।
वि॒श्व॒ऽसह॑म् । अव॑से । नूत॑नाय । उ॒ग्रम् । स॒हः॒ऽदाम् । इ॒ह । तम् । हु॒वे॒म॒ ॥
इहास्मिन्यज्ञे नूतनाय अभिनवाय अवसे रक्षणाय तं प्रसिद्धं इन्द्रं हुवेम स्तुमः आह्वयामोवा कीदृशं मरुत्वंतं मरुद्भिर्युक्तं वृषभं का- मानांवर्षितारं ववृधानं प्रवृद्धं अकवारिं अकुत्सितशत्रुंदिव्यं द्योतमानं शासं शासितारं विश्वसहं विश्वस्यलोकस्याभिभवितारं उग्रमो- जस्विनं सहोदां बलप्रदं ॥ ११ ॥