<<<<<<< HEAD ======= >>>>>>> 2fcb1a1b3266574a26687eaa824a98e1c7bfa18e

मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २२, ऋक् १

संहिता

य एक॒ इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒ तं गी॒र्भिर॒भ्य॑र्च आ॒भिः ।
यः पत्य॑ते वृष॒भो वृष्ण्या॑वान्त्स॒त्यः सत्वा॑ पुरुमा॒यः सह॑स्वान् ॥

पदपाठः

यः । एकः॑ । इत् । हव्यः॑ । च॒र्ष॒णी॒नाम् । इन्द्र॑म् । तम् । गीः॒ऽभिः । अ॒भि । अ॒र्चे॒ । आ॒भिः ।
यः । पत्य॑ते । वृ॒ष॒भः । वृष्ण्य॑ऽवान् । स॒त्यः । सत्वा॑ । पु॒रु॒ऽमा॒यः । सह॑स्वान् ॥

सायणभाष्यम्

यइन्द्रश्चर्षणीनां प्रजानां आपत्सु एकइत् एकएव हव्योह्वातव्यः आभिर्गीर्भिः स्तुतिरूपाभिर्वाग्भिः तमिन्द्रं अभ्यर्चे अभिष्टौमि यइन्द्रः पत्यते स्तोतॄनभिगच्छति यद्वा पत्यतेलोकानामीष्टे कीदृशः वृषभः कामानांवर्षिता वृष्ण्यावान् बलवान् सत्यः अविसंवादी सत्वा शात्रूणां सादयिता कामानांदातावा सदेर्वासनोतेर्वेदंरूपं पुरुमायोबहुप्रज्ञः सहस्वानभिभवनवान् तमिन्द्रमभिष्टौमीतिसंबन्धः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३