सु॒त इत्त्वं निमि॑श्ल इन्द्र॒ सोमे॒ स्तोमे॒ ब्रह्म॑णि श॒स्यमा॑न उ॒क्थे ।यद्वा॑ यु॒क्ताभ्यां॑ मघव॒न्हरि॑भ्यां॒ बिभ्र॒द्वज्रं॑ बा॒ह्वोरि॑न्द्र॒ यासि॑ ॥
सु॒ते । इत् । त्वम् । निऽमि॑श्लः । इ॒न्द्र॒ । सोमे॑ । स्तोमे॑ । ब्रह्म॑णि । श॒स्यमा॑ने । उ॒क्थे ।
यत् । वा॒ । यु॒क्ताभ्या॑म् । म॒घ॒ऽव॒न् । हरि॑ऽभ्याम् । बिभ्र॑त् । वज्र॑म् । बा॒ह्वोः । इ॒न्द्र॒ । यासि॑ ॥
सोमेसुतेइत् अभिषुतएव सति ब्रह्मणि बृहति महति स्तोत्रे उच्चार्यमाणेसति उक्थेशस्त्रे शस्यमानेसति हेइन्द्र त्वं निमिश्लः निमिश्लः सन् हरी संयोजयन् हेमघवन् धनवन्निन्द्र त्वं बाह्वोर्हस्तयोर्वज्रंस्वकीयमायुधं बिभ्रत् धारयन् युक्ताभ्यं रथेनियुक्ताभ्यां हरिभ्यामश्वा- भ्यां यासि यद्वा आगच्छसीति यच्च तत्सोमेभिषुतइतिसंबन्धः ॥ १ ॥