मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३८, ऋक् ५

संहिता

ए॒वा ज॑ज्ञा॒नं सह॑से॒ असा॑मि वावृधा॒नं राध॑से च श्रु॒ताय॑ ।
म॒हामु॒ग्रमव॑से विप्र नू॒नमा वि॑वासेम वृत्र॒तूर्ये॑षु ॥

पदपाठः

ए॒व । ज॒ज्ञा॒नम् । सह॑से । असा॑मि । व॒वृ॒धा॒नम् । राध॑से । च॒ । श्रु॒ताय॑ ।
म॒हाम् । उ॒ग्रम् । अव॑से । वि॒प्र॒ । नू॒नम् । आ । वि॒वा॒से॒म॒ । वृ॒त्र॒ऽतूर्ये॑षु ॥

सायणभाष्यम्

हेविप्र मेधाविन्निन्द्र एव एवंजज्ञानं प्रादुर्भवन्तं सहसे शत्रूणामभिभवार्थं असामि बहुलं वावृधानं वर्धमानं महां महान्तं उग्रमुद्गूर्णं- बलंत्वांनूनं अद्य वृत्रतूर्येषु संग्रामेषु श्रुताय विश्रुताय राधसे धनायच अवसे रक्षणायच आविवासेम परिचरेम ॥ ५ ॥

मंद्रस्यकविरितिपंचर्षंषोळशंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रं मन्द्रस्येत्यनुक्रान्तं गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०