यः श॒ग्मस्तु॑विशग्म ते रा॒यो दा॒मा म॑ती॒नाम् ।
सोमः॑ सु॒तः स इ॑न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ॥
यः । श॒ग्मः । तु॒वि॒ऽश॒ग्म॒ । ते॒ । रा॒यः । दा॒मा । म॒ती॒नाम् ।
सोमः॑ । सु॒तः । सः । इ॒न्द्र॒ । ते॒ । अस्ति॑ । स्व॒धा॒ऽप॒ते॒ । मदः॑ ॥
हेतुविशग्म बहुसुखेन्द्र यःशग्मःसुखकरः तेत्वदीयःसोमः मतीनांस्तोतॄणांरायोधनस्यदामा दाताभवति हेस्वधापतेइन्द्र ससोमोभिषु- तस्तवमदकरोभवति ॥ २ ॥