उप॑ नः सू॒नवो॒ गिरः॑ शृ॒ण्वन्त्व॒मृत॑स्य॒ ये ।
सु॒मृ॒ळी॒का भ॑वन्तु नः ॥
उप॑ । नः॒ । सू॒नवः॑ । गिरः॑ । शृ॒ण्वन्तु॑ । अ॒मृत॑स्य । ये ।
सु॒ऽमृ॒ळी॒काः । भ॒व॒न्तु॒ । नः॒ ॥
अमृतस्यमरणरहितस्यप्रजापतेः यसूनवः पुत्राः नेदेवाःनोस्माकंगिरःस्तुतीः उपशृण्वन्तु नोस्माकंसुमृळीकाः सुष्ठुमृडयितारः सुखयि- तारश्चभवन्तु ॥ ९ ॥