मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५४, ऋक् ५

संहिता

पू॒षा गा अन्वे॑तु नः पू॒षा र॑क्ष॒त्वर्व॑तः ।
पू॒षा वाजं॑ सनोतु नः ॥

पदपाठः

पू॒षा । गाः । अनु॑ । ए॒तु॒ । नः॒ । पू॒षा । र॒क्ष॒तु॒ । अर्व॑तः ।
पू॒षा । वाज॑म् । स॒नो॒तु॒ । नः॒ ॥

सायणभाष्यम्

पूषापोषकोदेवः नोस्मदीयागाः अन्वेतु रक्षणार्थमनुगच्छतु सचपूषाअर्वतोश्वान् रक्षतु चोरेभ्यःतथावाजमन्नंचनोस्मभ्यंपूषासनोतु प्रयच्छतु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९