मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६, ऋक् ३

संहिता

वि ते॒ विष्व॒ग्वात॑जूतासो अग्ने॒ भामा॑सः शुचे॒ शुच॑यश्चरन्ति ।तु॒वि॒म्र॒क्षासो॑ दि॒व्या नव॑ग्वा॒ वना॑ वनन्ति धृष॒ता रु॒जन्त॑ः ॥

पदपाठः

वि । ते॒ । विष्व॑क् । वात॑ऽजूतासः । अ॒ग्ने॒ । भामा॑सः । शु॒चे॒ । शुच॑यः । च॒र॒न्ति॒ ।
तु॒वि॒ऽम्र॒क्षासः॑ । दि॒व्याः । नव॑ऽग्वाः । वना॑ । व॒न॒न्ति॒ । धृ॒ष॒ता । रु॒जन्तः॑ ॥

सायणभाष्यम्

हेशुचे शुद्धदीप्तवाग्ने ते त्वदीयाः वातजूतासोवातेनप्रेरिताः शूचयोनिर्मलाः भामासोदीप्तयः विष्वक् सर्वतोविचरन्तिविविधंगच्छन्ति तुविम्नक्षासः बहुकाष्ठानिस्पृशन्तः दिव्याः दिविद्योतमानेग्नौभवाः नवग्वानूतनगमनास्तेरश्मयः वना वनानि वनन्ति सम्भजन्ते दहन्ती- त्यर्थः किंकुर्वन्तः धृषता धर्षकेण तेजसा रुजन्तः वनानि भंजयन्तः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः