मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६६, ऋक् ११

संहिता

तं वृ॒धन्तं॒ मारु॑तं॒ भ्राज॑दृष्टिं रु॒द्रस्य॑ सू॒नुं ह॒वसा वि॑वासे ।
दि॒वः शर्धा॑य॒ शुच॑यो मनी॒षा गि॒रयो॒ नाप॑ उ॒ग्रा अ॑स्पृध्रन् ॥

पदपाठः

तम् । वृ॒धन्त॑म् । मारु॑तम् । भ्राज॑त्ऽऋष्टिम् । रु॒द्रस्य॑ । सू॒नुम् । ह॒वसा॑ । आ । वि॒वा॒से॒ ।
दि॒वः । शर्धा॑य । शुच॑यः । म॒नी॒षाः । गि॒रयः॑ । न । आपः॑ । उ॒ग्राः । अ॒स्पृ॒ध्र॒न् ॥

सायणभाष्यम्

तं प्रसिद्धं वृधन्तं वर्धमानं भ्राजदृष्टिं भ्राजमानऋष्टिं रुद्रस्य सूनुं पुत्रं मास्र्तं मरुद्रणं हवसा स्तोत्रेण आविवासे परिचरामि । किं च दिवः स्तोतुः शुचयो निर्मलाः मनीषाः स्तुतयः उग्राः उद्रूर्णाः शर्धाय मारुताय बलाय त्वक्षः शर्ध इति बलनामसु पाठात् आपः आमुवन्तः गिरयो न मेघाइव गिरिः व्रज इति मेघनामसु पाठात् अस्षृघ्रन् अस्पर्धन्त ॥ ११ ॥

विश्वेषांव इत्येकादशर्चं षष्ठं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभं मैत्रावरुणं तथा चानुक्रम्यते-विश्वेषां मैत्रावरुणमिति सूक्तविनियोगो लैंगिकः मैत्रावरुणे पशौ आयातं मित्रावरुणेति पशुपुरोडाशस्यानुवाक्या सूत्रितं च-आयातंमित्रावरुणासुशस्त्यानोमित्रावरुणाहव्यजुष्टिमिति । व्यूह्वे दशरात्रे सप्तमे हनि प्रउगशस्त्रे प्रयद्वामिति मैत्रावरुणस्तृतीयस्तृचः तथा च सूत्रितं-प्रयद्वां मित्रावरुणास्पूर्धन्नागोमताना सत्यार- थेनेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः