वि मे॒ कर्णा॑ पतयतो॒ वि चक्षु॒र्वी॒३॒॑दं ज्योति॒र्हृद॑य॒ आहि॑तं॒ यत् ।
वि मे॒ मन॑श्चरति दू॒रआ॑धी॒ः किं स्वि॑द्व॒क्ष्यामि॒ किमु॒ नू म॑निष्ये ॥                
                    वि । मे॒ । कर्णा॑ । प॒त॒य॒तः॒ । वि । चक्षुः॑ । वि । इ॒दम् । ज्योतिः॑ । हृद॑ये । आऽहि॑तम् । यत् ।
वि । मे॒ । मनः॑ । च॒र॒ति॒ । दू॒रेऽआ॑धीः । किम् । स्वि॒त् । व॒क्ष्यामि॑ । किम् । ऊं॒ इति॑ । नु । म॒नि॒ष्ये॒ ॥                
वैश्वानरंश्रोतुकामस्य मे मम कर्णा कर्णौ विपतयतः विविधंगच्छतः श्रोतव्यानां तदीयगुणानांबहुत्वात् तथा वैश्वानरंदिदृक्षमाणस्य ममचक्षुरिन्द्रियं विपतयति विविधंगच्छति द्रष्टव्यानांतदीयरूपाणां बहुत्वात् तथा ज्योतिः प्रकाशकं हृदयेहृदयपुण्डरीके आहितं निहितं यद्बुद्भ्याख्यंतत्त्वं इदमपि विपतयति विविधंगच्छति वैश्वानरात्मानंज्ञातुं अपिच दूरे आधीःदूरे विप्रकृष्टेविषये आधीराध्यानंयस्यतादृशं छान्दसोलिङ्गव्यत्ययः मे मदीयं मनश्च विचरति विविधंप्रवर्तते एवमहमहमिकया सर्वेष्विंद्रियेषुप्रवृत्तेषु किंस्विदहं वैश्वानरस्यरूपमि- ति वक्ष्यामि । किमुनु किमुखलु सम्प्रतिमनिष्ये मनसाप्रपत्स्येवैश्वानरस्यगुणानामनन्तत्वात् मन्दप्रज्ञेनमयाज्ञातुंनशक्यतइत्यर्थः ॥ ६ ॥