मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३४, ऋक् २१

संहिता

प्रति॑ न॒ः स्तोमं॒ त्वष्टा॑ जुषेत॒ स्याद॒स्मे अ॒रम॑तिर्वसू॒युः ॥

पदपाठः

प्रति॑ । नः॒ । स्तोम॑म् । त्वष्टा॑ । जु॒षे॒त॒ । स्यात् । अ॒स्मे इति॑ । अ॒रम॑तिः । व॒सु॒ऽयुः ॥

सायणभाष्यम्

नोस्माकं स्तोमं स्तोत्रं त्वष्टा प्रतिजुषेत प्रतिसेवेत । अपि च अरमतिः पर्याप्तबुद्धिः सर्वविषयव्यापिबुद्धिर्वा त्वष्टा अस्मे अस्मदर्थं वसूयुः धनकामः स्यात् भूयात् ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७