सं॒व॒त्स॒रं श॑शया॒ना ब्रा॑ह्म॒णा व्र॑तचा॒रिणः॑ ।
वाचं॑ प॒र्जन्य॑जिन्वितां॒ प्र म॒ण्डूका॑ अवादिषुः ॥                
                    सं॒व॒त्स॒रम् । श॒श॒या॒नाः । ब्रा॒ह्म॒णाः । व्र॒त॒ऽचा॒रिणः॑ ।
वाच॑म् । प॒र्जन्य॑ऽजिन्विताम् । प्र । म॒ण्डूकाः॑ । अ॒वा॒दि॒षुः॒ ॥                
अत्र निरुक्तम्-वसिष्ठोवर्षकामः पर्जन्यं तुष्टाव तं मण्डूका अन्वमोदन्त समण्डूकाननुमोदमानान्दृष्ट्वा तुष्टावेति मण्डूकामज्जूकामज्जना- न्मदतेर्वामोदतिकर्मणोमन्दतेर्वातृप्तिकर्मणोमण्डयतेरिति वैय्याकरणामण्डएषामोकइतिवा मण्डो मदेर्वा मुदेर्वातेषमेषाभवतीति । व्रतचारिणः व्रतं संवत्सरसत्रात्मकं कर्म आचरन्तोब्राह्मणाः लुप्तोपममेतत् एवं भूताब्राह्मणाइव संवत्सरं शरत्प्रभृति आवर्षर्तोरेकं संवत्सरं शशयानाः शिश्यानाः वर्षणार्थं तपश्चरन्तइव बिलएव सन्तः एते मण्डूकाः पर्जन्यजिन्वितां पर्जन्येन प्रीतां यया वाचा पर्जन्यः प्रीतोभवति तादृशीं वाचं प्रावादिषुः प्रवदन्ति ॥ १ ॥