सु॒वि॒ज्ञा॒नं चि॑कि॒तुषे॒ जना॑य॒ सच्चास॑च्च॒ वच॑सी पस्पृधाते ।
तयो॒र्यत्स॒त्यं य॑त॒रदृजी॑य॒स्तदित्सोमो॑ऽवति॒ हन्त्यास॑त् ॥
सु॒ऽवि॒ज्ञा॒नम् । चि॒कि॒तुषे॑ । जना॑य । सत् । च॒ । अस॑त् । च॒ । वच॑सी॒ इति॑ । प॒स्पृ॒धा॒ते॒ इति॑ ।
तयोः॑ । यत् । स॒त्यम् । य॒त॒रत् । ऋजी॑यः । तत् । इत् । सोमः॑ । अ॒व॒ति॒ । हन्ति॑ । अस॑त् ॥
प्रयेणेदमादिभिरृग्भिः राक्षसेन सह ऋषिणा शपथः क्रियते अत्रकेचिदाहुः-हत्वा पुत्रशतं पूर्वं वसिष्ठस्य महात्मनः । वसिष्ठं राक्षसोसित्वं वसिष्ठं रूपमास्थितः ॥ १ ॥ अहं वसिष्ठइत्येवं जिघांसूराक्षसोब्रवीत् । अत्रोत्तराऋचोदृष्टावसिष्ठेनेति नः श्रुतमिति ॥ २ ॥ चिकितुषे विदुषे जनाय इदं सुविज्ञानं विज्ञातुं सुशकं भवति । किं तत् सच्च सत्यं च असच्च असत्यं च वचसी सत्यासत्यरूपे वचने पस्पृधाते मिथः स्पर्धेते तयोः सदसतोर्मध्ये यत्सत्यं यथार्थं वचनं यतरत् यच्च ऋजीयः ऋजुतमं अकुटिलं तदुत् तदेव अकुटिलं सत्यभाषिणं सोमोवति रक्षति असत् उक्तलक्षणमसत्यं हन्ति हिनस्ति एवं सति आवयोर्मध्ये कतरोनृतभाषीति विद्वद्भिः सुविज्ञानमित्यर्थः ॥ १२ ॥