प्राग्नये॑ विश्व॒शुचे॑ धियं॒धे॑ऽसुर॒घ्ने मन्म॑ धी॒तिं भ॑रध्वम् ।भरे॑ ह॒विर्न ब॒र्हिषि॑ प्रीणा॒नो वै॑श्वान॒राय॒ यत॑ये मती॒नाम् ॥
प्र । अ॒ग्नये॑ । वि॒श्व॒ऽशुचे॑ । धि॒य॒म्ऽधे॑ । अ॒सु॒र॒ऽघ्ने । मन्म॑ । धी॒तिम् । भ॒र॒ध्व॒म् ।
भरे॑ । ह॒विः । न । ब॒र्हिषि॑ । प्री॒णा॒नः । वै॒श्वा॒न॒राय॑ । यत॑ये । म॒ती॒नाम् ॥
हे सखायः विश्वशुचे विश्वं यो दीपयति तस्मै धियंधे धियां कर्मणां यो धाता तस्मै असुरघ्ने असुराणां यो हन्ता तस्मै अग्नये मन्म मननीयं स्तोत्रं धीतिं कर्मच प्रभरध्वम् । मतीनाम भिमतानां कामानां यतये दात्रे वैश्वानराय विश्वनरहिताय अग्निविशेषाय बर्हिषि यज्ञे हविर्न हविरिव स्तुतिं प्रीणानः प्रीयमाणोहं भरे भरामि । यद्वा हविः प्रीणानः प्रीणयन्नहं बर्हिषि हविर्भरे संभरामि नेति संप्रत्यर्थे ॥ १ ॥