मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १७, ऋक् ६

संहिता

त्वामु॒ ते द॑धिरे हव्य॒वाहं॑ दे॒वासो॑ अग्न ऊ॒र्ज आ नपा॑तम् ॥

पदपाठः

त्वाम् । ऊं॒ इति॑ । ते । द॒धि॒रे॒ । ह॒व्य॒ऽवाह॑म् । दे॒वासः॑ । अ॒ग्ने॒ । ऊ॒र्जः । आ । नपा॑तम् ॥

सायणभाष्यम्

हे अग्ने ऊर्जोबलस्य नपातं पुत्रं सूनुः नपादित्यपत्यनामसु पाठात् त्वामु त्वामेव ते प्रसिद्धादेवासोदेवा हव्यवाहं हविषोवोढारं आदधिरे अकुर्वन्नित्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३