मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २, ऋक् ३

संहिता

ई॒ळेन्यं॑ वो॒ असु॑रं सु॒दक्ष॑म॒न्तर्दू॒तं रोद॑सी सत्य॒वाच॑म् ।
म॒नु॒ष्वद॒ग्निं मनु॑ना॒ समि॑द्धं॒ सम॑ध्व॒राय॒ सद॒मिन्म॑हेम ॥

पदपाठः

ई॒ळेन्य॑म् । वः॒ । असु॑रम् । सु॒ऽदक्ष॑म् । अ॒न्तः । दू॒तम् । रोद॑सी॒ इति॑ । स॒त्य॒ऽवाच॑म् ।
म॒नु॒ष्वत् । अ॒ग्निम् । मनु॑ना । सम्ऽइ॑द्धम् । सम् । अ॒ध्व॒राय॑ । सद॑म् । इत् । म॒हे॒म॒ ॥

सायणभाष्यम्

हे अध्वयर्वः वोयूयं ईळेन्यं स्तुत्यमसुरं बलवन्तं सुदक्षं सुप्रज्ञः रोदसी रोदस्योरन्तर्मध्ये दूतं देवानां हविर्वहनार्थं चरन्तं सत्यवाचं मनुष्वन् मनुष्यवत् मनुना समिद्धं यथेदानीं मनुष्याः समिन्धते तथा पूर्वं मनुना प्रजापतिना समिद्धमग्नुइमध्वराय यज्ञाय सदमित् सदैव संमहेमसंपूजयत मध्यमपुरुषस्य व्यत्ययेनोत्तमपुरुषत्वम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः