भी॒मो वि॑वे॒षायु॑धेभिरेषा॒मपां॑सि॒ विश्वा॒ नर्या॑णि वि॒द्वान् ।
इन्द्र॒ः पुरो॒ जर्हृ॑षाणो॒ वि दू॑धो॒द्वि वज्र॑हस्तो महि॒ना ज॑घान ॥
भी॒मः । वि॒वे॒ष॒ । आयु॑धेभिः । ए॒षा॒म् । अपां॑सि । विश्वा॑ । नर्या॑णि । वि॒द्वान् ।
इन्द्रः॑ । पुरः॑ । जर्हृ॑षाणः । वि । दू॒धो॒त् । वि । वज्र॑ऽहस्तः । म॒हि॒ना । ज॒घा॒न॒ ॥
इन्द्रो नर्याणि नरहितानि विश्वा विश्वानि अपांसि कर्माणि विद्वान् जानन् आयुधेभिरायुधैः भीमो भयंकरःसन् एषां कर्मणिषष्ठी एतान- सुरान् विवेष व्याप्तवान् पुरश्च तेषां विदूधोदकंपयत् । अपि च जर्हषाणः हृष्यन् महिना महिम्ना युक्तो वज्रहस्तःसन् तान्विजघान ॥ ४ ॥