यस्ते॒ मदो॒ युज्य॒श्चारु॒रस्ति॒ येन॑ वृ॒त्राणि॑ हर्यश्व॒ हंसि॑ ।स त्वामि॑न्द्र प्रभूवसो ममत्तु ॥
यः । ते॒ । मदः॑ । युज्यः॑ । चारुः॑ । अस्ति॑ । येन॑ । वृ॒त्राणि॑ । ह॒रि॒ऽअ॒श्व॒ । हंसि॑ ।
सः । त्वाम् । इ॒न्द्र॒ । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो । म॒म॒त्तु॒ ॥
हे हर्यश्व ते तव यः युज्योगुणः चारुः समीचीनो मदो मदकरः सोमोस्ति विद्यते येनच पीतेन सोमेन वृत्राणि हंसि । हे प्रभूवसो प्रभूत- धनेन्द्र त्वां ससोमोममत्तु मादयतु ॥ २ ॥