का ते॑ अ॒स्त्यरं॑कृतिः सू॒क्तैः क॒दा नू॒नं ते॑ मघवन्दाशेम ।विश्वा॑ म॒तीरा त॑तने त्वा॒याधा॑ म इन्द्र शृणवो॒ हवे॒मा ॥
का । ते॒ । अ॒स्ति॒ । अर॑म्ऽकृतिः । सु॒ऽउ॒क्तैः । क॒दा । नू॒नम् । ते॒ । म॒घ॒ऽव॒न् । दा॒शे॒म॒ ।
विश्वाः॑ । म॒तीः । आ । त॒त॒ने॒ । त्वा॒ऽया । अध॑ । मे॒ । इ॒न्द्र॒ । शृ॒ण॒वः॒ । हवा॑ । इ॒मा ॥
हे इन्द्र ते तव सूक्तैरस्माभिः क्रियमाणैः स्तोत्रैः अरंकृतिः कास्ति कीदृशीभवति हे मघवन् ते तव कदा नूनं कदा खलु दाशेम प्रीतिमुत्पा- दयेम त्वाया त्वत्कामनयैव विश्वाः मतीः सर्वाः स्तुतीराततने करोमि । अध अतः कारणात् हे इन्द्र मे मदीयानि इमा इमानि हवा हवानि स्तोत्राणि शृणु ॥ ३ ॥