मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३२, ऋक् ३

संहिता

रा॒यस्का॑मो॒ वज्र॑हस्तं सु॒दक्षि॑णं पु॒त्रो न पि॒तरं॑ हुवे ॥

पदपाठः

रा॒यःऽका॑मः । वज्र॑ऽहस्तम् । सु॒ऽदक्षि॑णम् । पु॒त्रः । न । पि॒तर॑म् । हु॒वे॒ ॥

सायणभाष्यम्

रायस्कामोधनकामोहं सुदक्षिणं शोभनदानं वज्रहस्तं इन्द्रं पुत्रोन पुत्रइव पितरं हुवे ह्वयामि ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७