त्रयः॑ कृण्वन्ति॒ भुव॑नेषु॒ रेत॑स्ति॒स्रः प्र॒जा आर्या॒ ज्योति॑रग्राः ।
त्रयो॑ घ॒र्मास॑ उ॒षसं॑ सचन्ते॒ सर्वाँ॒ इत्ताँ अनु॑ विदु॒र्वसि॑ष्ठाः ॥
त्रयः॑ । कृ॒ण्व॒न्ति॒ । भुव॑नेषु । रेतः॑ । ति॒स्रः । प्र॒ऽजाः । आर्याः॑ । ज्योतिः॑ऽअग्राः ।
त्रयः॑ । घ॒र्मासः॑ । उ॒षस॑म् । स॒च॒न्ते॒ । सर्वा॑न् । इत् । तान् । अनु॑ । वि॒दुः॒ । वसि॑ष्ठाः ॥
भुवनेषु पृथिव्यंतरिक्षद्युक्षु त्रयोग्निवायुसूर्याः यथाक्रमेण रेतो विश्वस्य धारकमुदकं कृण्वन्ति कुर्वन्ति तेषां त्रयाणां ज्योतिरग्रा आदित्य- प्रमुखा आर्याः श्रेष्ठाः तिस्रः प्रजाभवन्ति तेच त्रयोग्निवायुसूर्याः घर्मासो दीप्यमानाः उषसं सचन्ते समवयन्ति दुर्ज्ञानान् सर्वानित् सर्वा- नेवा तान् वसिष्ठा अनुविदुः अभिजानन्ति तेषां रहस्यविज्ञानादियमपि वसिष्ठानामेवस्तुतिः तथाच शाट्यायनकं-त्रयःकृण्वन्ति भुवनेषुरेतइत्यग्निः पृथिव्यां रेतःकृणोति वायुरन्तरिक्ष आदित्योदिवि तिस्रः प्रजाआर्याज्योतिरग्राइति वसवोरुद्राआदित्यास्तासां ज्योति- र्यदसावादित्यः त्रयोघर्मासउषसंसचन्तइत्यग्निरुषसं सचते वायुरुषसं सचते आदित्यउषसं सचतइति ॥ ७ ॥