मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३४, ऋक् ३

संहिता

आप॑श्चिदस्मै॒ पिन्व॑न्त पृ॒थ्वीर्वृ॒त्रेषु॒ शूरा॒ मंस॑न्त उ॒ग्राः ॥

पदपाठः

आपः॑ । चि॒त् । अ॒स्मै॒ । पिन्व॑न्त । पृ॒थ्वीः । वृ॒त्रेषु॑ । शूराः॑ । मंस॑न्ते । उ॒ग्राः ॥

सायणभाष्यम्

इन्द्रोस्मिन्द्वृचे स्तूयते पृथ्वीः पृथ्व्यः प्रथमाना आपश्चिदापोप्यस्माइन्द्राय पिन्वन्त प्यायन्ते वृत्रेषूपद्रवेषु सत्सूग्राउद्गूर्णास्तेजस्विनोवा शूरायोद्धारोपि मंसन्ते इममेवेन्द्रंस्तुवन्ति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५