मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३९, ऋक् १

संहिता

ऊ॒र्ध्वो अ॒ग्निः सु॑म॒तिं वस्वो॑ अश्रेत्प्रती॒ची जू॒र्णिर्दे॒वता॑तिमेति ।
भे॒जाते॒ अद्री॑ र॒थ्ये॑व॒ पन्था॑मृ॒तं होता॑ न इषि॒तो य॑जाति ॥

पदपाठः

ऊ॒र्ध्वः । अ॒ग्निः । सु॒ऽम॒तिम् । वस्वः॑ । अ॒श्रे॒त् । प्र॒ती॒ची । जू॒र्णिः । दे॒वऽता॑तिम् । ए॒ति॒ ।
भे॒जाते॒ इति॑ । अद्री॒ इति॑ । र॒थ्या॑ऽइव । पन्था॑म् । ऋ॒तम् । होता॑ । नः॒ । इ॒षि॒तः । य॒जा॒ति॒ ॥

सायणभाष्यम्

अग्निरंगनादिगुणविशिष्टः ऊर्ध्वउद्गमनः वस्वोवासकस्य स्तोतुः सुमतिं अस्मदीयां शोभनांस्तुतिं अश्रेत् श्रयतु सेवतां प्रतीची अभिमुखी जूर्णिः सर्वासां प्रजानां जरयित्री उषोदेवता देवतातिं यज्ञमेति गच्छति अद्रीआद्रियन्तौ श्रद्धावन्तौ पत्नीयजमानौ पंथां पंथानं यज्ञमा- र्गं रथ्येव रथिनाविव भेजाते सेवाते तथा इषितः संप्रेषितो नोस्मदीयोहोता ऋतं यज्ञं यजाति यजतु करोत्वित्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः