मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४९, ऋक् ३

संहिता

यासां॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् ।म॒धु॒श्चुत॒ः शुच॑यो॒ याः पा॑व॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥

पदपाठः

यासा॑म् । राजा॑ । वरु॑णः । याति॑ । मध्ये॑ । स॒त्या॒नृ॒ते इति॑ । अ॒व॒ऽपश्य॑न् । जना॑नाम् ।
म॒धु॒ऽश्चुतः॑ । शुच॑यः । याः । पा॒व॒काः । ताः । आपः॑ । दे॒वीः । इ॒ह । माम् । अ॒व॒न्तु॒ ॥

सायणभाष्यम्

वरुणः यासामपां रजास्वामी मध्येमध्यमलोके याति गच्छति किंकुर्वन् जनानां प्रजानां सत्यानृते सत्यंचानृतंच अवपश्यन् जानन्नित्यर्थः याआपः मधुश्चुतः रसं क्षरंत्यः शुचयोदीप्तियुक्ताः पावकाः शोधयित्र्यः ताआपोदेव्योमां रक्षंत्विति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६