मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५५, ऋक् ३

संहिता

स्ते॒नं रा॑य सारमेय॒ तस्क॑रं वा पुनःसर ।
स्तो॒तॄनिन्द्र॑स्य रायसि॒ किम॒स्मान्दु॑च्छुनायसे॒ नि षु स्व॑प ॥

पदपाठः

स्ते॒नम् । रा॒य॒ । सा॒र॒मे॒य॒ । तस्क॑रम् । वा॒ । पु॒नः॒ऽस॒र॒ ।
स्तो॒तॄन् । इन्द्र॑स्य । रा॒य॒सि॒ । किम् । अ॒स्मान् । दु॒च्छु॒न॒ऽय॒से॒ । नि । सु । स्व॒प॒ ॥

सायणभाष्यम्

हे पुनःसर गतमेव देशं पुनः सरतीति पुनःसरः तादृग्भूत हे सारमेय त्वं स्तेनं प्रच्छन्नधनापहारी स्तेनः तं तस्करं प्रत्यक्षधनापहारी तस्करः तं वारय गच्छ इन्द्रस्य स्तोतॄनस्मान् किं रायसि गच्छसि अस्मान् दुच्छुनायसे किं बाधसे निषुस्वप अत्यन्तं निद्रां कुरु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२