न्यु॑ प्रि॒यो मनु॑षः सादि॒ होता॒ नास॑त्या॒ यो यज॑ते॒ वन्द॑ते च ।अ॒श्नी॒तं मध्वो॑ अश्विना उपा॒क आ वां॑ वोचे वि॒दथे॑षु॒ प्रय॑स्वान् ॥
नि । ऊं॒ इति॑ । प्रि॒यः । मनु॑षः । सा॒दि॒ । होता॑ । नास॑त्या । यः । यज॑ते । वन्द॑ते । च॒ ।
अ॒श्नी॒तम् । मध्वः॑ । अ॒श्वि॒नौ॒ । उ॒पा॒के । आ । वा॒म् । वो॒चे॒ । वि॒दथे॑षु । प्रय॑स्वान् ॥
प्रियोयुवयोः प्रियभूतोमनुषोमानुषः मनुषः सकाशाज्जातोवा होता देवानामाह्वाता स्तोतायं निषादि न्यसादि निषण्णोभवति युवयोः कर्मणिवर्ततइत्यर्थः हे नासत्याश्विनौ योयजते यागंकरोति वन्दते स्तौति च तस्य संबन्धिनं मध्वोमधुरं सोमरसं हे अश्विनाश्विनौ उपा- केन्तिकएव संईपेस्थित्वैवाश्नीतं पिबतमित्यर्थः विदथेषु यज्ञेषु वां युवां प्रयस्वान् अन्नवान्सन् आवोचे आह्वये । उपूरणः ॥ २ ॥