वा॒जिनी॑वती॒ सूर्य॑स्य॒ योषा॑ चि॒त्राम॑घा रा॒य ई॑शे॒ वसू॑नाम् ।
ऋषि॑ष्टुता ज॒रय॑न्ती म॒घोन्यु॒षा उ॑च्छति॒ वह्नि॑भिर्गृणा॒ना ॥
वा॒जिनी॑ऽवती । सूर्य॑स्य । योषा॑ । चि॒त्रऽम॑घा । रा॒यः । ई॒शे॒ । वसू॑नाम् ।
ऋषि॑ऽस्तुता । ज॒रय॑न्ती । म॒घोनी॑ । उ॒षाः । उ॒च्छ॒ति॒ । वह्नि॑ऽभिः । गृ॒णा॒ना ॥
वाजिनीवती बह्वन्ना यद्यप्युषोनामैतत् तथापि चित्रामघेत्यस्यापि उषोनामकस्य पृथग्विद्यमानत्वादत्रैकोयोगरूढोवगन्तव्यः । सूर्यस्य योषा योषित् चित्रामघा विचित्रधना विचित्ररश्म्याख्यधनावा रायोधनस्य अविशिष्टस्य तस्य वसूनां देवमनुष्यादिसर्वाश्रयाणां धनानां चेशे ईष्टे अथवा वसवोवासका रश्मयः तेषामपीष्टे । ऋषिष्टुता ऋषिभिः स्तुता जरयन्ती प्राणिजाता नि उषाः खलु पुनः पुनरावर्तमाना प्राणिनामायुः क्षपयति । मघोनी धनवती उषाः वह्रिभिः कर्मवोढृभिः यजमानैर्गृणाना स्तूयमाना उच्छति विभानं करोति ॥ ५ ॥