स॒मा॒न ऊ॒र्वे अधि॒ संग॑तास॒ः सं जा॑नते॒ न य॑तन्ते मि॒थस्ते ।
ते दे॒वानां॒ न मि॑नन्ति व्र॒तान्यम॑र्धन्तो॒ वसु॑भि॒र्याद॑मानाः ॥
स॒मा॒ने । ऊ॒र्वे । अधि॑ । सम्ऽग॑तासः । सम् । जा॒न॒ते॒ । न । य॒त॒न्ते॒ । मि॒थः । ते ।
ते । दे॒वाना॑म् । न । मि॒न॒न्ति॒ । व्र॒तानि॑ । अम॑र्धन्तः । वसु॑ऽभिः । याद॑मानाः ॥
समाने सर्वेषां साधारणे ऊर्वे गोसमूहे पणिभिरपत्दृते पुनर्लब्धव्ये सतिअधीत्यनर्थकः सङ्गतासो मिलिताः सन्तः ते सआनते एकबुद्धयो- भवन्ति न मिथः परस्परं यतंते सहैव साधनमनुतिष्ठन्तीत्यर्थः । तेंगिरसः देवानां व्रतानि कर्माणि यागलक्षणानि नमिनन्ति नहिंसन्ति किन्तु परिपालयन्तीत्यर्थः किंकिर्वन्तोअमर्धन्तोहिंसन्तः बसुभिर्वासकैरुषसांतेजोभिः यादमानाः गच्छन्तः ॥ ५ ॥