मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८१, ऋक् ५

संहिता

तच्चि॒त्रं राध॒ आ भ॒रोषो॒ यद्दी॑र्घ॒श्रुत्त॑मम् ।यत्ते॑ दिवो दुहितर्मर्त॒भोज॑नं॒ तद्रा॑स्व भु॒नजा॑महै ॥

पदपाठः

तत् । चि॒त्रम् । राधः॑ । आ । भ॒र॒ । उषः॑ । यत् । दी॒र्घ॒श्रुत्ऽत॑मम् ।
यत् । ते॒ । दि॒वः॒ । दु॒हि॒तः॒ । म॒र्त॒ऽभोज॑नम् । तत् । रा॒स्व॒ । भु॒नजा॑महै ॥

सायणभाष्यम्

हे उषाः तच्चित्रं चायनीयं राधोधनं आभराहर अस्मभ्यं प्रयच्छ । यद्धनं दीर्घ श्रुत्तमं देशकालयोर्विप्रकर्षेप्यतिशयेन श्रोतव्यम् अपिच हे दिवोदुहितः ते तव त्वया देयं मर्तभोजनं मर्तानां मनुष्याणां भोगयोग्यं यदन्नमप्यस्ति तद्रास्व देह्यस्मभ्यम् वयञ्च त्वद्दत्तं धनमन्नञ्च भुनजामहै अभ्यवहरेम ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः