यत्स्थो दी॒र्घप्र॑सद्मनि॒ यद्वा॒दो रो॑च॒ने दि॒वः ।
यद्वा॑ समु॒द्रे अध्याकृ॑ते गृ॒हेऽत॒ आ या॑तमश्विना ॥
यत् । स्थः । दी॒र्घऽप्र॑सद्मनि । यत् । वा॒ । अ॒दः । रो॒च॒ने । दि॒वः ।
यत् । वा॒ । स॒मु॒द्रे । अधि॑ । आऽकृ॑ते । गृ॒हे । अतः॑ । आ । या॒त॒म् । अ॒श्वि॒ना॒ ॥
हे अश्विनौ दीर्घप्रसद्मनि प्रसीदन्त्येषु देवाइति प्रसद्मानोयज्ञगृहाः दीर्घाआयताः प्रसद्मानोयस्मिन् तस्मिन् लोके यत् यदिस्थोभवथो- वर्तेथे यद्वा यदिवा अदः अमुष्मिन् दिवोद्युलोकस्य संबन्धिनि रोचने रोचमाने स्थाने भवथः यद्वा यदिवा समुद्रे अन्तरिक्षे समुद्रवन्त्य- स्मादापइति समुद्रमन्तरिक्षंतस्मिन् आकृते निर्मिते गृहे अधिवसथः अतस्त्रितयादपिस्थानात् हे अश्विनावायातमागच्छतम् ॥ १ ॥