ऋध॑गि॒त्था स मर्त्य॑ः शश॒मे दे॒वता॑तये ।
यो नू॒नं मि॒त्रावरु॑णाव॒भिष्ट॑य आच॒क्रे ह॒व्यदा॑तये ॥
ऋध॑क् । इ॒त्था । सः । मर्त्यः॑ । श॒श॒मे । दे॒वऽता॑तये ।
यः । नू॒नम् । मि॒त्रावरु॑णौ । अ॒भिष्ट॑ये । आ॒ऽच॒क्रे । ह॒व्यऽदा॑तये ॥
यो मनुष्यो नूनं क्षिप्रं हव्यदातये हविषां प्रदात्रे यजमानाय मित्रावरुणौ अभिष्टये अभिमतसिध्यर्थं आचके अभिमुखौ करोति । समर्त्यो मनुष्यः ऋधक् सत्यं इत्था इत्थं देवतातये यज्ञार्थं शशमे हविः संस्करोति ॥ १ ॥