मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०३, ऋक् १३

संहिता

मो ते रि॑ष॒न्ये अच्छो॑क्तिभिर्व॒सोऽग्ने॒ केभि॑श्चि॒देवै॑ः ।
की॒रिश्चि॒द्धि त्वामीट्टे॑ दू॒त्या॑य रा॒तह॑व्यः स्वध्व॒रः ॥

पदपाठः

मो इति॑ । ते । रि॒ष॒न् । ये । अच्छो॑क्तिऽभिः । व॒सो॒ इति॑ । अग्ने॑ । केभिः॑ । चि॒त् । एवैः॑ ।
की॒रिः । चि॒त् । हि । त्वाम् । ईट्टे॑ । दू॒त्या॑य । रा॒तऽह॑व्यः । सु॒ऽअ॒ध्व॒रः ॥

सायणभाष्यम्

हे वसो वासकाग्ने त्वां ये मनुष्याः अच्छोक्तिभिः अभिष्टुतिभिः केभिः कैः सुखकरैः एवैश्चित् अभिगमनैरपि ते स्तोतारो मोरिषन् मैव हिंसन्ताम् । रातहव्यो दत्तहविष्कः स्वध्वरः शोभनयज्ञः कीरिश्चित् स्तोतापि दूत्याय हविर्वहनदिलक्षणाय दूतकर्मणे त्वामीद्देहि स्तौतिखलु ॥ १३ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५