मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १७, ऋक् २

संहिता

आ त्वा॑ ब्रह्म॒युजा॒ हरी॒ वह॑तामिन्द्र के॒शिना॑ ।उप॒ ब्रह्मा॑णि नः शृणु ॥

पदपाठः

आ । त्वा॒ । ब्र॒ह्म॒ऽयुजा॑ । हरी॒ इति॑ । वह॑ताम् । इ॒न्द्र॒ । के॒शिना॑ ।
उप॑ । ब्रह्मा॑णि । नः॒ । शृ॒णु॒ ॥

सायणभाष्यम्

हे इन्द्र ब्रह्मयुजा ब्रह्मणा मंत्रेण युज्यमानौ केशिना केशिनौ केशवन्तौ हरी हरणशीलावश्वौ त्वा त्वां आवहतां अभिप्रापयताम् । त्वं चास्मद्य- ज्ञमुपेत्य नोस्माकं ब्रह्माणि स्तोत्राणि शृणु स्तोत्राणि गृहाण सम्यक् चित्ते धारय ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२