त्रय॒ः कोशा॑सः श्चोतन्ति ति॒स्रश्च॒म्व१॒॑ः सुपू॑र्णाः ।स॒मा॒ने अधि॒ भार्म॑न् ॥
त्रयः॑ । कोशा॑सः । श्चो॒त॒न्ति॒ । ति॒स्रः । च॒म्वः॑ । सुऽपू॑र्णाः ।
स॒मा॒ने । अधि॑ । भार्म॑न् ॥
त्रयः त्रिसंख्याकाः कोशासः कोशाः सोमस्याश्रयभूताः द्रोणकलशपूतभृदाधवनीयाख्याः श्चोतन्ति क्षरन्ति इन्द्रार्थं सोमं स्रावयन्ति तिस्रः त्रिविधाः सवनत्रयेवर्तमानाः चम्वः चमसाश्च सुपूर्णाः इन्द्रयागाय सोमैः सुपूरिता आसन् एतत्सर्वं कुत्रेतिचेत् उच्यते समाने एकस्मिन्नेव भार्मन् भर्मणि भरे ऋत्विग्भिर्भ्रियमाणे यज्ञे अधिः सप्तम्यर्थानुवादी ॥ ८ ॥