वि॒द्मा हि रु॒द्रिया॑णां॒ शुष्म॑मु॒ग्रं म॒रुतां॒ शिमी॑वताम् ।
विष्णो॑रे॒षस्य॑ मी॒ळ्हुषा॑म् ॥
वि॒द्म । हि । रु॒द्रिया॑णाम् । शुष्म॑म् । उ॒ग्रम् । म॒रुता॑म् । शिमी॑ऽवताम् ।
विष्णोः॑ । ए॒षस्य॑ । मी॒ळ्हुषा॑म् ॥
रुद्रियाणां रुद्रपुत्राणां शिमीवतां कर्मवतां विष्णोर्व्याप्तस्य एषस्य एषणीयस्य वृष्टचुदकस्य मीह्ळुषां सेक्तृणां मरुतां उग्रमुद्गूर्णं शुष्मं बलं विझहि जानीमः खलु ॥ ३ ॥