स्मदे॒तया॑ सुकी॒र्त्याश्वि॑ना श्वे॒तया॑ धि॒या ।
वहे॑थे शुभ्रयावाना ॥                
                    स्मत् । ए॒तया॑ । सु॒ऽकी॒र्त्या । अश्वि॑ना । श्वे॒तया॑ । धि॒या ।
वहे॑थे॒ इति॑ । शु॒भ्र॒ऽया॒वा॒ना॒ ॥                
हे शुभ्रयावाना शोभनशीलगमनवन्तौ हे अश्विना अश्विनौ सुकीर्त्या शोभनस्तुत्या श्वेतया श्वेतजलया धिया धारयित्र्या हिरण्मयकूलवत्या उभय- कूलस्थितानां प्राणिनां धनदानेन पोषयित्र्या एतया नद्या स्मत् सुमत् शोभनं वहेथे युवां स्तुतिं प्राप्नुथः एषा युवामस्तौदित्यर्थः ॥ १९ ॥