ति॒ग्ममेको॑ बिभर्ति॒ हस्त॒ आयु॑धं॒ शुचि॑रु॒ग्रो जला॑षभेषजः ॥
ति॒ग्मम् । एकः॑ । बि॒भ॒र्ति॒ । हस्ते॑ । आयु॑धम् । शुचिः॑ । उ॒ग्रः । जला॑षऽभेषजः ॥
अत्र जलाषभेषजइत्यनेन रुद्रोभिधीयते शुचिः शुच दीप्तौ सर्वतः स्वतेजसा दीप्यमानः यद्वा शुच शोके शत्रूणां शोचयिता दुःखयिता अतएव उग्रः उद्रूर्णबलः जलाषभेषजः रोगापनयनेन सुखकरभैषज्यवान् यद्वा स्तोतृणाम् । दुःखरूपसंसारोच्छेदेन सुखकारिभिषग्रूपः । प्रथमोदैव्योभिषगित्यादि- श्रुतिभिरस्यभिषक्त्वंश्रूयते । तादृशएकोरुद्रः तिग्मं तीक्ष्णधारं आयुधं आयुध्यति सम्प्रहरति शत्रूननेनेति आयुधं पिनाकः तं स्वकीये हस्ते बिभर्ति । ॥ ५ ॥