यो मे॒ हिर॑ण्यसंदृशो॒ दश॒ राज्ञो॒ अमं॑हत ।
अ॒ध॒स्प॒दा इच्चै॒द्यस्य॑ कृ॒ष्टय॑श्चर्म॒म्ना अ॒भितो॒ जना॑ः ॥
यः । मे॒ । हिर॑ण्यऽसन्दृशः । दश॑ । राज्ञः॒॑ । अमं॑हत ।
अ॒धः॒ऽप॒दाः । इत् । चै॒द्यस्य॑ । कृ॒ष्टयः॑ । च॒र्म॒ऽम्नाः । अ॒भितः॑ । जनाः॑ ॥
यः कशुसंज्ञोराजा मे मत्द्यं हिरण्यसन्दृशः हिरण्यसंदर्शनान् हिरण्यसमानतेजस्कान् दशराज्ञः अमंहत परिचरणार्थं दत्तवान् दशसंख्या- कान् राज्ञोयुद्धे पराजितान् गृहीत्वा दासत्वेन अस्मै दत्तवानित्यर्थः । ननु ईदृशानां बहुविधानां राज्ञां दाने एकः कथं शक्रुयादिति तत्राह कृष्टयः सर्वाः प्रजाः तस्य चैद्यस्य चेदिपुत्रस्य कशोः अधस्पदा इत् पादयोरधस्तादेव वर्तन्ते नकश्चिदपि तत्समानस्तदधिकोवा विद्यते । अभितः सर्वतोवर्तमानाजनाः चर्मम्नाः चर्ममयस्यकवचादेर्धारणे कृताभ्यासाः । यद्वा चर्माणि चरणसाधनान् पश्वादीनि वाहनानि तेषु मनन्त्यभ्यस्यन्तीति चर्मम्नाः म्नाअभ्यासे आतोमनिन्नितिविच् सर्वेमनुष्यास्तस्य भटाइत्यर्थः ॥ ३७ ॥