मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् ४४

संहिता

इन्द्र॒मिद्विम॑हीनां॒ मेधे॑ वृणीत॒ मर्त्य॑ः ।
इन्द्रं॑ सनि॒ष्युरू॒तये॑ ॥

पदपाठः

इन्द्र॑म् । इत् । विऽम॑हीनाम् । मेधे॑ । वृ॒णी॒त॒ । मर्त्यः॑ ।
इन्द्र॑म् । स॒नि॒ष्युः । ऊ॒तये॑ ॥

सायणभाष्यम्

विमहीनां विशेषेण महतां देवानां मध्ये इन्द्रमित् इन्द्रमेव मेधे यज्ञे मर्त्योमनुष्योहोता वृणीत स्तुतिभिः संभजते । तथा सनिष्युः धनका- मश्च स्तोता ऊतये रक्षणाय इन्द्रमेव वृणीते स्तुत्या संभजते ॥ ४४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७