मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् ४८

संहिता

उदा॑नट् ककु॒हो दिव॒मुष्ट्रा॑ञ्चतु॒र्युजो॒ दद॑त् ।
श्रव॑सा॒ याद्वं॒ जन॑म् ॥

पदपाठः

उत् । आ॒न॒ट् । क॒कु॒हः । दिव॑म् । उष्ट्रा॑न् । च॒तुः॒ऽयुजः॑ । दद॑त् ।
श्रव॑सा । याद्व॑म् । जन॑म् ॥

सायणभाष्यम्

अयं राजा ककुहः अच्छ्रितः सन् श्रवसा कीर्त्या दिवं स्वर्गं उदानट् उत्कृष्टतरं व्याप्नोत् किंकुर्वन् चतुर्युजः चतुर्भिः स्वर्णभारैः युक्तान् उष्ट्रन् ददत् प्रयच्छत् तथा याद्वं जनं च दासत्वेन प्रयच्छन् ॥ ४८ ॥

प्रयद्वइति षट्त्रिंशदृचं द्वितीयं सूक्तं कण्वगोत्रस्य पुनर्वत्सस्तर्षं मारुतं गायत्रम् । तथा चानुक्रांतम्-प्रयद्वःषट् त्रिंशत्पुनर्वत्सोमारुत- मिति । व्यूह्ळे दशरात्रे प्रथमेछन्दोमे आग्निमारुतशस्त्रे इदंसूक्तं मारुतनिविद्धानं सूत्रितञ्च-प्रयद्वस्त्रिष्टुभं दूतंवइत्याग्निमारुतमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७