व॒यं घा॑ ते॒ त्वे इद्विन्द्र॒ विप्रा॒ अपि॑ ष्मसि ।
न॒हि त्वद॒न्यः पु॑रुहूत॒ कश्च॒न मघ॑व॒न्नस्ति॑ मर्डि॒ता ॥
व॒यम् । घ॒ । ते॒ । त्वे इति॑ । इत् । ऊं॒ इति॑ । इन्द्र॑ । विप्राः॑ । अपि॑ । स्म॒सि॒ ।
न॒हि । त्वत् । अ॒न्यः । पु॒रु॒ऽहू॒त॒ । कः । च॒न । मघ॑ऽवन् । अस्ति॑ । म॒र्डि॒ता ॥
हे इन्द्र वयंघ वयंखलु तेतव स्वभूता अतस्त्वेइत् त्वय्येव विप्रा मेधाविनः स्तोतारोपि स्मसि अपिः संभावनायां त्वदधीनाः स्मेत्यर्थः । अन्यान्वि- हायेन्द्रएव वर्तते तस्मिन्कोतिशयइत्याह-हे पुरुहूत त्वदन्यः कश्चन हे मघवन्मर्डिता सुखयिता नह्यस्ति ॥ १३ ॥