मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६८, ऋक् ३

संहिता

यस्य॑ ते महि॒ना म॒हः परि॑ ज्मा॒यन्त॑मी॒यतु॑ः ।हस्ता॒ वज्रं॑ हिर॒ण्यय॑म् ॥

पदपाठः

यस्य॑ । ते॒ । म॒हि॒ना । म॒हः । परि॑ । ज्मा॒यन्त॑म् । ई॒यतुः॑ ।
हस्ता॑ । वज्र॑म् । हि॒र॒ण्यय॑म् ॥

सायणभाष्यम्

महोमहतो यस्य ते तव यच्छब्दः प्रकृतपरामर्शकः प्रकृतं तूक्तमृग् द्वयं तत्रत्यतुविकूर्मिमृतीषहमित्याद्युक्तलक्षणस्य तवेत्यर्थः । महिना महत्त्वेन तव हस्ता हस्तौ ज्मायन्तं पृथिव्यां सर्वतोव्याप्नुवन्तं हिरण्ययं हिरण्मयं वज्रं परि ईयतुः परिगृह्णीतः । सर्वदास्माकं भयनिवारणायेतिभावः ॥ ३ ॥ पृष्ठ्याभिप्लवषडहयोः द्वितीयेहनि विश्वानरस्येति प्रतिपत्तृचः सूत्रितञ्च-विश्वानरस्यवस्पतिमिन्द्रइत्सोमपाएकइति मरुत्वतीयस्य प्रतिपदनु- चराविति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः