मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६८, ऋक् ८

संहिता

न यस्य॑ ते शवसान स॒ख्यमा॒नंश॒ मर्त्य॑ः ।नकि॒ः शवां॑सि ते नशत् ॥

पदपाठः

न । यस्य॑ । ते॒ । श॒व॒सा॒न॒ । स॒ख्यम् । आ॒नंश॑ । मर्त्यः॑ ।
नकिः॑ । शवां॑सि । ते॒ । न॒श॒त् ॥

सायणभाष्यम्

हेशवसान बलवन् इन्द्र यस्य ते तव सख्यं मर्त्यो मरणधर्मा मनुष्योनानंश नव्याप्नोति ते शवांसि बलान्यपि नकिर्नैवनशत् न व्याप्नोति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः