त्वं न॑ इन्द्र ऋत॒युस्त्वा॒निदो॒ नि तृ॑म्पसि ।
मध्ये॑ वसिष्व तुविनृम्णो॒र्वोर्नि दा॒सं शि॑श्नथो॒ हथै॑ः ॥
त्वम् । नः॒ । इ॒न्द्र॒ । ऋ॒त॒ऽयुः । त्वा॒ऽनिदः॑ । नि । तृ॒म्प॒सि॒ ।
मध्ये॑ । व॒सि॒ष्व॒ । तु॒वि॒ऽनृ॒म्ण॒ । ऊ॒र्वोः । नि । दा॒सम् । शि॒श्न॒थः॒ । हथैः॑ ॥
हे इन्द्र ऋतयुर्यज्ञकामस्त्वं नोस्मान् त्वानिदः त्वां योनिन्दति सः अयजनमेवनिन्दा तव तस्मादयष्टुः सकाशात् नि नितरां तृम्पसि प्रीणयसि तस्य धनमपत्दृत्येति भावः । एवं सन्तर्प्य हे तुविनृम्ण प्रभूतधन सत्वं तवोर्वोर्मध्येस्मान्वसिष्व ऊरुभ्यामाच्छादय रक्षार्थम् । दासं उपक्षपयितारं अस्मद्द्वेषिणं पापंवा हथैर्हननैर्निशिश्नथः मारयसि । अथवा त्वद्विरोधिनं दासमसुरं निशिश्नथोहननैः ॥ १० ॥