आग॑न्म वृत्र॒हन्त॑मं॒ ज्येष्ठ॑म॒ग्निमान॑वम् ।
यस्य॑ श्रु॒तर्वा॑ बृ॒हन्ना॒र्क्षो अनी॑क॒ एध॑ते ॥                
                    आ । अ॒ग॒न्म॒ । वृ॒त्र॒हन्ऽत॑मम् । ज्येष्ठ॑म् । अ॒ग्निम् । आन॑वम् ।
यस्य॑ । श्रु॒तर्वा॑ । बृ॒हन् । आ॒र्क्षः । अनी॑के । एध॑ते ॥                
वृत्रहन्तमं पापानामतिशयेन हन्तारं ज्येष्ठं प्रशस्यं मानवं मनुष्यसंबन्धिनं तेषां हितकारिणमग्निमागन्म आगतावयम् । पूजार्थं बहुवचनम् । यस्याग्ने- रनीके ज्वालासंघे बृहन्महान् आर्क्षऋक्षपुत्रः श्रुतर्वानामराजा एधते वर्धते कर्मकरोतीत्यर्थः । तमग्निमागन्म इतिसमन्वयः । एवं श्रुतर्वाणं भिक्षयागतो गोपवनोग्निं स्तौति ॥ ४ ॥