मा सी॑मव॒द्य आ भा॑गु॒र्वी काष्ठा॑ हि॒तं धन॑म् ।
अ॒पावृ॑क्ता अर॒त्नयः॑ ॥
मा । सी॒म् । अ॒व॒द्ये । आ । भा॒क् । उ॒र्वी । काष्ठा॑ । हि॒तम् । धन॑म् ।
अ॒प॒ऽआवृ॑क्ताः । अ॒र॒त्नयः॑ ॥
मास्मान् सीं सर्वतोऽवधे निन्दा आभाग् माभजतु प्राप्नोतु न कुतश्चित् । पापरहितान्कुर्वित्यर्थः । किंचोर्वी काष्ठा बह्वंतरालआज्यंतः आज्यंतोपि काष्ठोच्यते कान्त्वा स्थितोभवतीति यास्कः । तत्र हितं निहितं शत्रुसंबन्धि धनं अस्माकं भवत्वित्यर्थः । अरत्नयः अरममाणाःशत्रवः अपावृक्ताः सन्त्वितिशेषः ॥ ८ ॥